|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.249. अध्यायः 249
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
पार्वत्या परमेश्वरंप्रति देवगन्धर्वादियोषितां मध्ये स्त्रीधर्मकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
नारद उवाच।
एवं ब्रुवन्त्यां स्त्रीधर्मं देव्यां देवस्य शासनात्।
ऋषिगन्धर्वयक्षाणां योषितश्चाप्सरोगणाः॥ 13-249-1(91266)
नागभूतस्त्रियश्चैव नद्यश्चैव समागताः।
श्रुतुकामाः परं वाक्यं सर्वाः पर्यवतस्थिरे॥ 13-249-2(91267)
उमादेवी मुदा युक्ता पुज्यमानाऽङ्गनागणैः।
आनृशंस्यपरा देवी सततं स्त्रीगणं प्रति॥ 13-249-3(91268)
स्त्रीगणस्य हितार्थाय भवप्रियचिकीर्षया।
वक्तुं वचनमारेभे स्त्रीणां धर्माश्रयान्वितम्॥ 13-249-4(91269)
उमोवाच। 13-249-5x(7678)
भगवन्सर्वभूतेश श्रूयतां वचनं मम।
ऋतुप्राप्ता सुशुद्दा या कन्या सेत्यभिधीयते॥ 13-249-5(91270)
तां तु कन्यां पिता माता भ्राता मातुल एव वा।
पितृव्यश्चैव पञ्चते दातुं प्रभवतां गताः॥ 13-249-6(91271)
विवाहाश्च तथा पञ्च तासां धर्मार्थकारणात्।
कामतश्च मिथो दानमितरेतरकाम्यया॥ 13-249-7(91272)
दत्ता यस्य भवेद्भार्या एतेषां येन केन चित्।
दातारः सुविमृश्यैव दातुमर्हन्ति नान्यथा॥ 13-249-8(91273)
उत्तमानां तु वर्णानां मन्त्रवत्पाणिसङ्ग्रहः।
विवाहकारणं चाहुः शूद्राणां सम्प्रयोगतः॥ 13-249-9(91274)
यदा दत्ता भवेत्कन्या तस्माद्भार्यार्थिने स्वकैः।
तदाप्रभृति सा नारी दशरात्रं विलज्जया।
मनसा कर्मणा वाचा अनुकूला च सा भवेत्॥ 13-249-10(91275)
इति भर्तृव्रतं कुर्यात्पतिमुद्दिश्य शोभना।
तदाप्रभृति सा नारी न कुर्यात्पत्युरप्रियम्॥ 13-249-11(91276)
यद्यदिच्छति वै भर्ता ध्रमकामार्थकारणात्।
तथैवानुप्रिया भूत्वा तथैवोपचरेत्पतिम्।
पतिव्रतात्वं नारीणामेतदेव सनातनम्॥ 13-249-12(91277)
तादृशी सा भवेन्नित्यं यादृशस्तु भवेत्पतिः।
शुभाशुभसमाचार एतद्वृत्तं समासतः॥ 13-249-13(91278)
दैवतं सततं साध्वी भर्तारं या तु पश्यति।
दैवमेव भवेत्तस्याः पतिरित्यवगम्यते॥ 13-249-14(91279)
एतस्मिन्कारणं देव पौराणी श्रूयते श्रुतिः।
कथयामि प्रसादात्ते शृणु देव समासतः॥ 13-249-15(91280)
कस्य चित्त्वथ विप्रस्य भार्ये द्वे हि बभूवतुः।
तयोरेका धर्मकामा देवानुद्दिश्य भक्तितः॥ 13-249-16(91281)
भर्तारमवमत्यैव देवतासु समाहिता।
चकार विपुलं धर्मं पूजयानाऽर्चयाऽन्वितम्॥ 13-249-17(91282)
अपरा धर्मकामा च पतिमुद्दिश्य शोभना।
भर्तारं दैवतं कृत्वा चकार किल तत्प्रियम्॥ 13-249-18(91283)
एवं विवर्तमाने तु युगपन्मरणेऽध्वनि।
गते किल महादेव तत्रैका या पतिव्रता।
देवप्रियायां तिष्ठन्त्यां पुण्यलोकं जगाम सा॥ 13-249-19(91284)
देवप्रिया च तिष्ठन्ती विललाप सुदुःखिता।
तां यमो लोकपालस्तु बभाषे पुष्कलं वचः॥ 13-249-20(91285)
मा शुचस्त्वं निवर्तस्व न लोकाः सन्ति तेऽनघे।
स्वधर्मविमुखा सा त्वं तस्माल्लोका न सन्ति ते॥ 13-249-21(91286)
देवता हि पतिर्नार्याः स्थापिता सर्वदैवतैः।
अवमत्य शुभे तत्त्वं कथं लोकान्गमिष्यसि॥ 13-249-22(91287)
मोहेनि त्वं वरारोहे न जानीषे स्वदैवतम्।
पतिमत्या स्त्रिया कार्यो धर्मः पत्यर्पणस्त्विति॥ 13-249-23(91288)
तस्मात्त्वं हि निवर्तस्व कुरु पत्याश्रितं हितम्।
तदा गन्तासि लोकांस्तान्यान्गच्छन्ति पतिव्रताः।
नान्यथा शक्यते प्राप्तुं पतीनां लोकमुत्तमम्॥ 13-249-24(91289)
यमेनैवंविधं चोक्ता निवृत्ता पुनरेव सा।
बभूव पतिमालम्ब्य पतिप्रियपरायणा॥ 13-249-25(91290)
एवमेतन्महगादेव दैवतं हि स्त्रियाः पतिः।
तस्मात्पतिपरा भूत्वा पतीनुपचरेदिति॥ ॥ 13-249-26(91291)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनपञ्चाशदधिकद्विशततमोऽध्यायः॥ 249 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|